वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रय ऋषयः छन्द: जगती स्वर: निषादः काण्ड:

ई꣣शान꣢ इ꣣मा꣡ भुव꣢꣯नानि꣣ ई꣡य꣢से युजा꣣न꣡ इ꣢न्दो ह꣣रि꣡तः꣢ सुप꣣꣬र्ण्यः꣢꣯ । ता꣡स्ते꣢ क्षरन्तु꣣ म꣡धु꣢मद्घृ꣣तं꣢꣫ पय꣣स्त꣡व꣢ व्र꣣ते꣡ सो꣢म तिष्ठन्तु कृ꣣ष्ट꣡यः꣢ ॥९५७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥९५७॥

मन्त्र उच्चारण
पद पाठ

ई꣣शानः꣢ । इ꣣मा꣢ । भु꣡व꣢꣯नानि । ई꣡य꣢꣯से । यु꣣जानः꣢ । इ꣣न्दो । हरि꣡तः꣢ । सुप꣢र्ण्यः । सु꣣ । पर्ण्यः꣢ । ताः । ते꣢ । क्षरन्तु । म꣡धुम꣢꣯त् । घृ꣣त꣢म् । प꣣यः꣢ । त꣡व꣢꣯ । व्र꣣ते꣢ । सो꣣म । तिष्ठन्तु । कृष्ट꣡यः꣢ ॥९५७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 957 | (कौथोम) 3 » 2 » 1 » 3 | (रानायाणीय) 6 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः वही विषय है।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन्, चन्द्रमा के समान आह्लाददायक परमात्मन् ! आप (इमा भुवनानि) इन लोकों के (ईशानः) अधिष्ठाता होते हुए (ईयसे) व्याप्त हो। आप (सुपर्ण्यः हरितः) तीव्र गतिवाली सूर्यकिरणों को (युजानः) भूमि, चन्द्रमा आदि ग्रहोपग्रहों में जोड़ते हुए (ईयसे) व्याप्त होते हो। (ते) आपकी (ताः) वे सूर्य-किरणें (मधुमत्) मधुर, (घृतम्) प्रवाहशील(पयः) वर्षाजल को (क्षरन्तु) बरसायें। हे (सोम)शुभगुणप्रेरक परमात्मन् ! (तव व्रते) आपके उपदेश किये हुए कर्म में (कृष्टयः) प्रजाएँ (तिष्ठन्तु) स्थित रहें ॥३॥

भावार्थभाषाः -

जो परमेश्वर सब जगत् को उत्पन्न करके उसकी भली-भाँति व्यवस्था करता है, जो मेघों में जल निहित करता तथा बरसाता है, उसके बताये व्रतों का पालन करते हुए सब लोग सुखी हों ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन्, चन्द्रवदाह्लादक परमात्मन् ! त्वम् (इमा भुवनानि) इमान् लोकान् (ईशानः) अधितिष्ठन्(ईयसे) व्याप्नोषि। त्वम् (सुपर्ण्यः हरितः) सुपतनान् आदित्यरश्मीन्। [हरितः इति रश्मिनाम। निघं० १।६। हरितः हरणान् आदित्यरश्मीन् इति निरुक्तम् ४।११।] (युजानः) भूचन्द्रादिषु ग्रहोपग्रहेषु योजयन् (ईयसे) व्याप्नोषि। (ते) तव (ताः) आदित्यदीधितयः (मधुमत्) मधुरम् (घृतम्) प्रवहणशीलम् (पयः) वृष्ट्युदकम्। [पयः इत्युदकनाम। निघं० १।१२।] (क्षरन्तु) वर्षन्तु। हे (सोम) शुभगुणप्रेरक परमात्मन् ! (तव व्रते) त्वया उपदिष्टे कर्मणि (कृष्टयः२) प्रजाः। [कृष्टय इति मनुष्यनाम। निघं० २।३।] (तिष्ठन्तु) वर्तन्ताम्। [संहितायाम् ‘भुवनानि ईयसे’ इत्यत्र ‘ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः’। वा० ६।१।१२६ इत्यनेन प्रकृतिभावो बोध्यः] ॥३॥

भावार्थभाषाः -

यः परमेश्वरः सकलं जगदुत्पाद्य तत् सम्यग् व्यवस्थापयति, यो मेघेषु जलं निदधाति वर्षति च, तदुक्तानि व्रतानि पालयन्तः सर्वे जनाः सुखिनो भवन्तु ॥३॥

टिप्पणी: १. ऋ० ९।८६।३७ ‘ईयसे’ इत्यत्र ‘वीय॑से’ इति पाठः। २. कृष्टयः कवयः पण्डिताः मेधाविनः—इति वि०।